Sukta 8.1
वि तर्तूर्यन्ते मघवन्विपश्चितोऽर्यो विपो जनानाम् । उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥
वि त॑र्तूर्यन्ते मघवन्विप॒श्चितो॒ऽर्यो विपो॒ जना॑नाम् । उप॑ क्रमस्व पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥
ví tartū́ryante maghavan vipaś-cíto ’ryó vípo jánānām | úpa kramasva puru-rū́pam ā́ bhara vā́jaṃ nediṣṭhám ūtáye ||
They press forward in their striving, O Maghavan—those seers of insight, the noble inspired among men. Step near in your many forms; bring to us the vāja, the plenitude of force, nearest for our uplift and protection.
वि । त॒र्तू॒र्य॒न्ते॒ । म॒घ॒ऽव॒न् । वि॒पः॒ऽचितः॑ । अ॒र्यः । विपः॑ । जना॑नाम् । उप॑ । क्र॒म॒स्व॒ । पु॒रु॒ऽरूप॑म् । आ । भ॒र॒ । वाज॑म् । नेदि॑ष्ठम् । ऊ॒तये॑ ॥वि । तर्तूर्यन्ते । मघवन् । विपःचितः । अर्यः । विपः । जनानाम् । उप । क्रमस्व । पुरुरूपम् । आ । भर । वाजम् । नेदिष्ठम् । ऊतये ॥vi | tartūryante | magha-van | vipaḥ-citaḥ | aryaḥ | vipaḥ | janānām | upa | kramasva | puru-rūpam | ā | bhara | vājam | nediṣṭham | ūtaye