Sukta 8.1
यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये । अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥
यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हव॑न्त ऊ॒तये॑ । अ॒स्माकं॒ ब्रह्मे॒दमि॑न्द्र भूतु॒ तेऽहा॒ विश्वा॑ च॒ वर्ध॑नम् ॥
yác cid dhí tvā jánā imé nā́nā havánta ūtáye | asmā́kaṃ bráhmedám indra bhūtu té ’hā víśvā ca várdhanam ||
Even though these peoples call you in many ways for help, let this our word of truth, O Indra, become yours—today and always—an increasing of the whole being.
यत् । चि॒त् । हि । त्वा॒ । जनाः॑ । इ॒मे । नाना॑ । हव॑न्ते । ऊ॒तये॑ । अ॒स्माक॑म् । ब्रह्म॑ । इ॒दम् । इ॒न्द्र॒ । भू॒तु॒ । ते । अहा॑ । विश्वा॑ । च॒ । वर्ध॑नम् ॥यत् । चित् । हि । त्वा । जनाः । इमे । नाना । हवन्ते । ऊतये । अस्माकम् । ब्रह्म । इदम् । इन्द्र । भूतु । ते । अहा । विश्वा । च । वर्धनम् ॥yat | cit | hi | tvā | janāḥ | ime | nānā | havante | ūtaye | asmākam | brahma | idam | indra | bhūtu | te | ahā | viśvā | ca | vardhanam