Sukta 8.1
आ यदश्वान्वनन्वतः श्रद्धयाहं रथे रुहम् । उत वामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः ॥
आ यदश्वा॒न्वन॑न्वतः श्र॒द्धया॒हं रथे॑ रु॒हम् । उ॒त वा॒मस्य॒ वसु॑नश्चिकेतति॒ यो अस्ति॒ याद्व॑: प॒शुः ॥
ā́ yád aśvā́n vanánvataḥ śraddháyāháṃ ráthe rúham | utá vā́masya vásunaś ciketati yó ásti yā́dvaḥ paśúḥ ||
When the conquering horses are brought near, with faith I mount the chariot. And I discern the desirable treasure: the living wealth that is ours—an inner possession that knows its way.
आ । यत् । अश्वा॑न् । वन॑न्ऽवतः । श्र॒द्धया॑ । अ॒हम् । रथे॑ । रु॒हम् । उ॒त । वा॒मस्य॑ । वसु॑नः । चि॒के॒त॒ति॒ । यः । अस्ति॑ । याद्वः॑ । प॒शुः ॥आ । यत् । अश्वान् । वनन्वतः । श्रद्धया । अहम् । रथे । रुहम् । उत । वामस्य । वसुनः । चिकेतति । यः । अस्ति । याद्वः । पशुः ॥ā | yat | aśvān | vanan-vataḥ | śraddhayā | aham | rathe | ruham | uta | vāmasya | vasunaḥ | ciketati | yaḥ | asti | yādvaḥ | paśuḥ