Sukta 8.1
स्तुहि स्तुहीदेते घा ते मंहिष्ठासो मघोनाम् । निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे ॥
स्तु॒हि स्तु॒हीदे॒ते घा॑ ते॒ मंहि॑ष्ठासो म॒घोना॑म् । नि॒न्दि॒ताश्व॑: प्रप॒थी प॑रम॒ज्या म॒घस्य॑ मेध्यातिथे ॥
stuhí stuhī́d eté ghā te maṃhíṣṭhāso maghónām | ninditā́śvaḥ prapathī́ paramajyā́ maghásya medhyātithe ||
Praise, praise indeed—these are thy most bountiful powers of the generous. O Medhyātithi, press forward on the path: the ‘horses’ that were blamed become the highest yokings when the force of the Gift is rightly kindled in us.
स्तु॒हि । स्तु॒हि । इत् । ए॒ते । घ॒ । ते॒ । मंहि॑ष्ठासः । म॒घोना॑म् । नि॒न्दि॒तऽअ॑श्वः । प्र॒ऽप॒थी । प॒र॒म॒ऽज्याः । म॒घस्य॑ । मे॒ध्य॒ऽअ॒ति॒थे॒ ॥स्तुहि । स्तुहि । इत् । एते । घ । ते । मंहिष्ठासः । मघोनाम् । निन्दितअश्वः । प्रपथी । परमज्याः । मघस्य । मेध्यअतिथे ॥stuhi | stuhi | it | ete | gha | te | maṃhiṣṭhāsaḥ | maghonām | nindita-aśvaḥ | pra-pathī | parama-jyāḥ | maghasya | medhya-atithe