Sukta 8.1
मम त्वा सूर उदिते मम मध्यंदिने दिवः । मम प्रपित्वे अपिशर्वरे वसवा स्तोमासो अवृत्सत ॥
मम॑ त्वा॒ सूर॒ उदि॑ते॒ मम॑ म॒ध्यंदि॑ने दि॒वः । मम॑ प्रपि॒त्वे अ॑पिशर्व॒रे व॑स॒वा स्तोमा॑सो अवृत्सत ॥
máma tvā sū́ra údite máma madhyáṃdine diváḥ | máma prapitvé apiśarvaré vasavā́ stómāso avṛtsata ||
Mine are the hymns that choose thee at the Sun’s uprising; mine at the mid-day of heaven; mine in the approaching dusk and in the enfolding night: O Vasu, the chants have turned themselves to thee, taking thee for their home.
मम॑ । त्वा॒ । सूरे॑ । उत्ऽइ॑ते । मम॑ । म॒ध्यन्दि॑ने । दि॒वः । मम॑ । प्र॒ऽपि॒त्वे । अ॒पि॒ऽश॒र्व॒रे । व॒सो॒ इति॑ । आ । स्तोमा॑सः । अ॒वृ॒त्स॒त॒ ॥मम । त्वा । सूरे । उत्इते । मम । मध्यन्दिने । दिवः । मम । प्रपित्वे । अपिशर्वरे । वसो इति । आ । स्तोमासः । अवृत्सत ॥mama | tvā | sūre | ut-ite | mama | madhyandine | divaḥ | mama | pra-pitve | api-śarvare | vaso iti | ā | stomāsaḥ | avṛtsata