Sukta 8.1
त्वं पुरं चरिष्ण्वं वधैः शुष्णस्य सं पिणक् । त्वं भा अनु चरो अध द्विता यदिन्द्र हव्यो भुवः ॥
त्वं पुरं॑ चरि॒ष्ण्वं॑ व॒धैः शुष्ण॑स्य॒ सं पि॑णक् । त्वं भा अनु॑ चरो॒ अध॑ द्वि॒ता यदि॑न्द्र॒ हव्यो॒ भुव॑: ॥
tváṃ púraṃ cariṣṇváṃ vadháiḥ śúṣṇasya sáṃ piṇak | tváṃ bhā́ ánu caró ádha dvitā́ yád indra hávyo bhúvaḥ ||
Thou didst shatter with thy strokes the moving stronghold of Śuṣṇa. Thou didst follow after the Light; and then again, O Indra, thou becomest one to be invoked—returning for the offering when the call is made.
त्वम् । पुर॑म् । च॒रि॒ष्ण्व॑म् । व॒धैः । शुष्ण॑स्य । सम् । पि॒ण॒क् । त्वम् । भाः । अनु॑ । च॒रः॒ । अध॑ । द्वि॒ता । यत् । इ॒न्द्र॒ । हव्यः॑ । भुवः॑ ॥त्वम् । पुरम् । चरिष्ण्वम् । वधैः । शुष्णस्य । सम् । पिणक् । त्वम् । भाः । अनु । चरः । अध । द्विता । यत् । इन्द्र । हव्यः । भुवः ॥tvam | puram | cariṣṇvam | vadhaiḥ | śuṣṇasya | sam | piṇak | tvam | bhāḥ | anu | caraḥ | adha | dvitā | yat | indra | havyaḥ | bhuvaḥ