Sukta 8.1
य एको अस्ति दंसना महाँ उग्रो अभि व्रतैः । गमत्स शिप्री न स योषदा गमद्धवं न परि वर्जति ॥
य एको॒ अस्ति॑ दं॒सना॑ म॒हाँ उ॒ग्रो अ॒भि व्र॒तैः । गम॒त्स शि॒प्री न स यो॑ष॒दा ग॑म॒द्धवं॒ न परि॑ वर्जति ॥
yá éko ásti daṃsánā mahā́m ugró abhí vratáiḥ | gámatsá śiprī́ ná sá yóṣadā́ gámad dhávam ná párī varjati ||
He who is One—mighty in his effective power and fierce in the force of his law—may he come. Like the radiant-lipped one, he consents; he comes to the call and does not turn away from our invocation, as a steadfast support that does not circle aside.
यः । एकः॑ । अस्ति॑ । दं॒सना॑ । म॒हाम् । उ॒ग्रः । अ॒भि । व्र॒तैः । गम॑त् । सः । शि॒प्री । न । सः । यो॒ष॒त् । आ । ग॒म॒त् । हव॑म् । न । परि॑ । व॒र्ज॒ति॒ ॥यः । एकः । अस्ति । दंसना । महाम् । उग्रः । अभि । व्रतैः । गमत् । सः । शिप्री । न । सः । योषत् । आ । गमत् । हवम् । न । परि । वर्जति ॥yaḥ | ekaḥ | asti | daṃsanā | mahām | ugraḥ | abhi | vrataiḥ | gamat | saḥ | śiprī | na | saḥ | yoṣat | ā | gamat | havam | na | pari | varjati