Sukta 8.1
पिबा त्वस्य गिर्वणः सुतस्य पूर्वपा इव । परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥
पिबा॒ त्व१॒॑स्य गि॑र्वणः सु॒तस्य॑ पूर्व॒पा इ॑व । परि॑ष्कृतस्य र॒सिन॑ इ॒यमा॑सु॒तिश्चारु॒र्मदा॑य पत्यते ॥
píbā t(v) asyá girvaṇaḥ sutásya pūrvapā́ iva | páriṣkṛtasya rasína iyám āsutíś cā́rur mádāya patyate ||
Drink then of this pressed Soma, O lord of the word, as one who has drunk before; of the well-prepared, sapful essence—this fair libation is ready and strives toward ecstasy.
पिब॑ । तु । अ॒स्य । गि॒र्व॒णः॒ । सु॒तस्य॑ । पू॒र्व॒पाःऽइ॑व । परि॑ऽकृतस्य । र॒सिनः॑ । इ॒यम् । आ॒ऽसु॒तिः । चारुः॑ । मदा॑य । प॒त्य॒ते॒ ॥पिब । तु । अस्य । गिर्वणः । सुतस्य । पूर्वपाःइव । परिकृतस्य । रसिनः । इयम् । आसुतिः । चारुः । मदाय । पत्यते ॥piba | tu | asya | girvaṇaḥ | sutasya | pūrvapāḥ-iva | pari-kṛtasya | rasinaḥ | iyam | āsutiḥ | cāruḥ | madāya | patyate