Sukta 8.1
आ त्वा रथे हिरण्यये हरी मयूरशेप्या । शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ॥
आ त्वा॒ रथे॑ हिर॒ण्यये॒ हरी॑ म॒यूर॑शेप्या । शि॒ति॒पृ॒ष्ठा व॑हतां॒ मध्वो॒ अन्ध॑सो वि॒वक्ष॑णस्य पी॒तये॑ ॥
ā́ tvā ráthe hiraṇyáye hárī mayū́ra-śepyā́ | śití-pṛṣṭhā vahatāṃ mádhvo ándhaso vivákṣaṇasya pītáye ||
May the two tawny ones bring thee on the golden chariot, with peacock-like beauty; dapple-backed, let them carry thee to the drinking of the honeyed Soma-essence, the wide-uttered delight.
आ । त्वा॒ । रथे॑ । हि॒र॒ण्यये॑ । हरी॒ इति॑ । म॒यूर॑ऽशेप्या । शि॒ति॒ऽपृ॒ष्ठा । व॒ह॒ता॒म् । मध्वः॑ । अन्ध॑सः । वि॒वक्ष॑णस्य । पी॒तये॑ ॥आ । त्वा । रथे । हिरण्यये । हरी इति । मयूरशेप्या । शितिपृष्ठा । वहताम् । मध्वः । अन्धसः । विवक्षणस्य । पीतये ॥ā | tvā | rathe | hiraṇyaye | harī iti | mayūra-śepyā | śiti-pṛṣṭhā | vahatām | madhvaḥ | andhasaḥ | vivakṣaṇasya | pītaye