Sukta 8.1
आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये । ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥
आ त्वा॑ स॒हस्र॒मा श॒तं यु॒क्ता रथे॑ हिर॒ण्यये॑ । ब्र॒ह्म॒युजो॒ हर॑य इन्द्र के॒शिनो॒ वह॑न्तु॒ सोम॑पीतये ॥
ā́ tvā sahásram ā́ śatáṃ yuktā́ ráthe hiraṇyáye | brahma-yújo háraya indra keśíno váhantu sóma-pītaye ||
A thousand and a hundred yoked—may they bring thee on the golden chariot: the tawny steeds, joined to the brahman, maned with power, O Indra, to the drinking of Soma.
आ । त्वा॒ । स॒हस्र॑म् । आ । श॒तम् । यु॒क्ताः । रथे॑ । हि॒र॒ण्यये॑ । ब्र॒ह्म॒ऽयुजः॑ । हर॑यः । इ॒न्द्र॒ । के॒शिनः॑ । वह॑न्तु । सोम॑ऽपीतये ॥आ । त्वा । सहस्रम् । आ । शतम् । युक्ताः । रथे । हिरण्यये । ब्रह्मयुजः । हरयः । इन्द्र । केशिनः । वहन्तु । सोमपीतये ॥ā | tvā | sahasram | ā | śatam | yuktāḥ | rathe | hiraṇyaye | brahma-yujaḥ | harayaḥ | indra | keśinaḥ | vahantu | soma-pītaye