Sukta 8.1
एन्द्र याहि मत्स्व चित्रेण देव राधसा । सरो न प्रास्युदरं सपीतिभिरा सोमेभिरुरु स्फिरम् ॥
एन्द्र॑ याहि॒ मत्स्व॑ चि॒त्रेण॑ देव॒ राध॑सा । सरो॒ न प्रा॑स्यु॒दरं॒ सपी॑तिभि॒रा सोमे॑भिरु॒रु स्फि॒रम् ॥
éndra yā́hi mátsva citréṇa deva rā́dhasā | sáro ná prā́sy udáraṃ sapī́tibhir ā́ sómebhir urú sphirám ||
O Indra, come and take thy joy by thy shining bounty; like a lake filling its belly, fill wide and firm with Soma-draughts taken together in comradeship.
आ । इ॒न्द्र॒ । या॒हि॒ । मत्स्व॑ । चि॒त्रेण॑ । दे॒व॒ । राध॑सा । सरः॑ । न । प्रा॒सि॒ । उ॒दर॑म् । सपी॑तिऽभिः । आ । सोमे॑भिः । उ॒रु । स्फि॒रम् ॥आ । इन्द्र । याहि । मत्स्व । चित्रेण । देव । राधसा । सरः । न । प्रासि । उदरम् । सपीतिभिः । आ । सोमेभिः । उरु । स्फिरम् ॥ā | indra | yāhi | matsva | citreṇa | deva | rādhasā | saraḥ | na | prāsi | udaram | sapīti-bhiḥ | ā | somebhiḥ | uru | sphiram