Sukta 8.1
शेवारे वार्या पुरु देवो मर्ताय दाशुषे । स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः ॥
शेवा॑रे॒ वार्या॑ पु॒रु दे॒वो मर्ता॑य दा॒शुषे॑ । स सु॑न्व॒ते च॑ स्तुव॒ते च॑ रासते वि॒श्वगू॑र्तो अरिष्टु॒तः ॥
śévāre vā́ryā purú devó mártāya dāśúṣe | sá sunvaté ca stuvaté ca rāsate viśvá-gūrto ari-stutáḥ ||
Many are the desirable boons, gracious and saving, which the god gives to the mortal who offers; he grants to the presser and to the praiser—he whom all acclaim, unhurt and unassailed by hostile praise.
शेवा॑रे । वार्या॑ । पु॒रु । दे॒वः । मर्ता॑य । दा॒शुषे॑ । सः । सु॒न्व॒ते । च॒ । स्तु॒व॒ते । च॒ । रा॒स॒ते॒ । वि॒श्वऽगू॑र्तः । अ॒रि॒ऽस्तु॒तः ॥शेवारे । वार्या । पुरु । देवः । मर्ताय । दाशुषे । सः । सुन्वते । च । स्तुवते । च । रासते । विश्वगूर्तः । अरिस्तुतः ॥śevāre | vāryā | puru | devaḥ | martāya | dāśuṣe | saḥ | sunvate | ca | stuvate | ca | rāsate | viśva-gūrtaḥ | ari-stutaḥ