Sukta 8.1
य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः । संधाता संधिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः ॥
य ऋ॒ते चि॑दभि॒श्रिष॑: पु॒रा ज॒त्रुभ्य॑ आ॒तृद॑: । संधा॑ता सं॒धिं म॒घवा॑ पुरू॒वसु॒रिष्क॑र्ता॒ विह्रु॑तं॒ पुन॑: ॥
yá ṛté cíd abhi-śríṣaḥ purā́ jatrúbhyā ā́-tṛ́daḥ | saṃdhā́tā saṃdhíṃ maghávā purūvásur íṣkartā ví-hrutaṃ púnaḥ ||
He who, even without the usual supports, long ago struck down the oppressions that weigh upon the shoulders—Maghavan, rich in many treasures, is the joiner who remakes the broken junction; he restores again what has been dislocated in us.
यः । ऋ॒ते । चि॒त् । अ॒भि॒ऽश्रिषः॑ । पु॒रा । ज॒त्रुऽभ्यः॑ । आ॒ऽतृदः॑ । सम्ऽधा॑ता । स॒न्धि॑म् । म॒घऽवा॑ । पु॒रु॒ऽवसुः॑ । इष्क॑र्ता । विऽह्रु॑तम् । पुन॒रिति॑ ॥यः । ऋते । चित् । अभिश्रिषः । पुरा । जत्रुभ्यः । आतृदः । सम्धाता । सन्धिम् । मघवा । पुरुवसुः । इष्कर्ता । विह्रुतम् । पुनरिति ॥yaḥ | ṛte | cit | abhi-śriṣaḥ | purā | jatru-bhyaḥ | ātṛdaḥ | sam-dhātā | sandhim | magha-vā | puru-vasuḥ | iṣkartā | vi-hrutam | punariti