Sukta 8.1
यत्तुदत्सूर एतशं वङ्कू वातस्य पर्णिना । वहत्कुत्समार्जुनेयं शतक्रतुः त्सरद्गन्धर्वमस्तृतम् ॥
यत्तु॒दत्सूर॒ एत॑शं व॒ङ्कू वात॑स्य प॒र्णिना॑ । वह॒त्कुत्स॑मार्जुने॒यं श॒तक्र॑तु॒: त्सर॑द्गन्ध॒र्वमस्तृ॑तम् ॥
yát tudát sū́ra étaśaṃ vaṅkū́ vā́tasya parṇínā | váhat kútsam ārjuneyáṃ śatákratuḥ tsárad gandharvám ástṛtam ||
When the Sun’s goad drives the Etaśa, and the wind-wing bears him onward—then Śatakratu, carrying Kutsa the Ārjuneya, passes beyond the unspread Gandharva, crossing the subtle limit that would bind the journey.
यत् । तु॒दत् । सूरः॑ । एत॑शम् । व॒ङ्कू इति॑ । वात॑स्य । प॒र्णिना॑ । वह॑त् । कुत्स॑म् । आ॒र्जु॒ने॒यम् । श॒तऽक्र॑तुः । त्सर॑त् । ग॒न्ध॒र्वम् । अस्तृ॑तम् ॥यत् । तुदत् । सूरः । एतशम् । वङ्कू इति । वातस्य । पर्णिना । वहत् । कुत्सम् । आर्जुनेयम् । शतक्रतुः । त्सरत् । गन्धर्वम् । अस्तृतम् ॥yat | tudat | sūraḥ | etaśam | vaṅkūiti | vātasya | parṇinā | vahat | kutsam | ārjuneyam | śata-kratuḥ | tsarat | gandharvam | astṛtam