Sukta 7.96
उभे यत्ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः । सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम् ॥
उ॒भे यत्ते॑ महि॒ना शु॑भ्रे॒ अन्ध॑सी अधिक्षि॒यन्ति॑ पू॒रव॑: । सा नो॑ बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो॑ म॒घोना॑म् ॥
ubhé yát te mahínā śúbhre ándhasī adhikṣiyánti pūrávaḥ | sā no bodhy avitrī marútsakhā códa rā́dho maghónām ||
O Sarasvatī, when by your greatness the two bright powers (the illumined currents) take their seat above the plenitudes, then awaken in us as the Protectress; companion of the Maruts, impel for us the abundant beatitude of the givers.
उ॒भे इति॑ । यत् । ते॒ । म॒हि॒ना । शु॒भ्रे॒ । अन्ध॑सी॒ इति॑ । अ॒धि॒ऽक्षि॒यन्ति॑ । पू॒रवः॑ । सा । नः॒ । बो॒धि॒ । अ॒वि॒त्री । म॒रुत्ऽस॑खा । चोद॑ । राधः॑ । म॒घोना॑म् ॥उभे इति । यत् । ते । महिना । शुभ्रे । अन्धसी इति । अधिक्षियन्ति । पूरवः । सा । नः । बोधि । अवित्री । मरुत्सखा । चोद । राधः । मघोनाम् ॥ubhe iti | yat | te | mahinā | śubhre | andhasī iti | adhi-kṣiyanti | pūravaḥ | sā | naḥ | bodhi | avitrī | marut-sakhā | coda | rādhaḥ | maghonām