Sukta 7.96
बृहदु गायिषे वचोऽसुर्या नदीनाम् । सरस्वतीमिन्महया सुवृक्तिभिः स्तोमैर्वसिष्ठ रोदसी ॥
बृ॒हदु॑ गायिषे॒ वचो॑ऽसु॒र्या॑ न॒दीना॑म् । सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभि॒: स्तोमै॑र्वसिष्ठ॒ रोद॑सी ॥
bṛhád u gāyiṣe váco 'suŕyā nadī́nām | sárasvatīm ín mahayā su-vṛ́kti-bhiḥ stómair vasiṣṭha ródasī ||
A vast word you shall sing—the sovereign river among rivers. Magnify Sarasvatī indeed with well-shaped utterances and hymns, O Vasiṣṭha, until the two worlds are widened within you.
बृ॒हत् । ऊँ॒ इति॑ । गा॒यि॒षे॒ । वचः॑ । अ॒सु॒र्या॑ । न॒दीना॑म् । सर॑स्वतीम् । इत् । म॒ह॒य॒ । सु॒ऽवृ॒क्तिऽभिः॑ । स्तोमैः॑ । व॒सि॒ष्ठ॒ । रोद॑सी॒ इति॑ ॥बृहत् । ऊँ इति । गायिषे । वचः । असुर्या । नदीनाम् । सरस्वतीम् । इत् । महय । सुवृक्तिभिः । स्तोमैः । वसिष्ठ । रोदसी इति ॥bṛhat | oṃ iti | gāyiṣe | vacaḥ | asuryā | nadīnām | sarasvatīm | it | mahaya | su-vṛkti-bhi ḥ | stomaiḥ | vasiṣṭha | rodasī iti