Sukta 7.94
मा कस्य नो अररुषो धूर्तिः प्रणङ्मर्त्यस्य । इन्द्राग्नी शर्म यच्छतम् ॥
मा कस्य॑ नो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य । इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ॥
mā kásya no aráruṣo dhūrtíḥ práṇag mártyasya | indrā́gnī śárma yacchatam ||
Let not the deceitful assault of any raging mortal strike us down; O Indra and Agni, grant us your sheltering peace.
मा । कस्य॑ । नः॒ । अर॑रुषः । धू॒र्तिः । प्रण॑क् । मर्त्य॑स्य । इन्द्रा॑ग्नी॒ इति॑ । शर्म॑ । य॒च्छ॒त॒म् ॥मा । कस्य । नः । अररुषः । धूर्तिः । प्रणक् । मर्त्यस्य । इन्द्राग्नी इति । शर्म । यच्छतम् ॥mā | kasya | naḥ | araruṣaḥ | dhūrtiḥ | praṇak | martyasya | indrāgnī iti | śarma | yacchatam