Sukta 7.87
तिस्रो द्यावो निहिता अन्तरस्मिन्तिस्रो भूमीरुपराः षड्विधानाः । गृत्सो राजा वरुणश्चक्र एतं दिवि प्रेङ्खं हिरण्ययं शुभे कम् ॥
ति॒स्रो द्यावो॒ निहि॑ता अ॒न्तर॑स्मिन्ति॒स्रो भूमी॒रुप॑रा॒: षड्वि॑धानाः । गृत्सो॒ राजा॒ वरु॑णश्चक्र ए॒तं दि॒वि प्रे॒ङ्खं हि॑र॒ण्ययं॑ शु॒भे कम् ॥
tísro dyā́vo níhitā antár asmin tísro bhū́mīr úparāḥ ṣáḍvidhānāḥ | gṛ́tso rājā́ váruṇaś cakra etáṃ diví préṅkhaṃ hiraṇyáyaṃ śubhé kám ||
Three heavens are set within this being, and three earths as higher foundations—sixfold dispositions of the worlds. King Varuṇa, the luminous craftsman, has made in the heaven a golden swinging-seat for the joy of the soul’s fair becoming.
ति॒स्रः । द्यावः॑ । निऽहि॑ताः । अ॒न्तः । अ॒स्मि॒न् । ति॒स्रः । भूमिः॑ । उप॑राः । षट्ऽवि॑धानाः । गृत्सः॑ । राजा॑ । वरु॑णः । च॒क्रे॒ । ए॒तम् । दि॒वि । प्र॒ऽई॒ङ्खम् । हि॒र॒ण्यय॑म् । शु॒भे । कम् ॥तिस्रः । द्यावः । निहिताः । अन्तः । अस्मिन् । तिस्रः । भूमिः । उपराः । षट्विधानाः । गृत्सः । राजा । वरुणः । चक्रे । एतम् । दिवि । प्रईङ्खम् । हिरण्ययम् । शुभे । कम् ॥tisraḥ | dyāvaḥ | ni-hitāḥ | antaḥ | asmin | tisraḥ | bhūmiḥ | uparāḥ | ṣaṭ-vidhānāḥ | gṛtsaḥ | rājā | varuṇaḥ | cakre | etam | divi | pra-īṅkham | hiraṇyayam | śubhe | kam