Sukta 7.87
उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति । विद्वान्पदस्य गुह्या न वोचद्युगाय विप्र उपराय शिक्षन् ॥
उ॒वाच॑ मे॒ वरु॑णो॒ मेधि॑राय॒ त्रिः स॒प्त नामाघ्न्या॑ बिभर्ति । वि॒द्वान्प॒दस्य॒ गुह्या॒ न वो॑चद्यु॒गाय॒ विप्र॒ उप॑राय॒ शिक्ष॑न् ॥
uvā́ca me váruṇo médhirāya tríḥ saptá nā́māghnyā́ bibharti | vidvā́n pádasya gúhyā na vocad yugā́ya vípra úparāya śíkṣan ||
Varuṇa spoke to me, to the one seeking clear intelligence: ‘The inviolate Cow bears thrice seven names.’ Knowing the secret of the Word’s step, he did not reveal it openly—teaching the seer for the ages, for the farther shore of understanding.
उ॒वाच॑ । मे॒ । वरु॑णः । मेधि॑राय । त्रिः । स॒प्त । नाम॑ । अघ्न्या॑ । बि॒भ॒र्ति॒ । वि॒द्वान् । प॒दस्य॑ । गुह्या॑ । न । वो॒च॒त् । यु॒गाय॑ । विप्रः॑ । उप॑राय । शिक्ष॑न् ॥उवाच । मे । वरुणः । मेधिराय । त्रिः । सप्त । नाम । अघ्न्या । बिभर्ति । विद्वान् । पदस्य । गुह्या । न । वोचत् । युगाय । विप्रः । उपराय । शिक्षन् ॥uvāca | me | varuṇaḥ | medhirāya | triḥ | sapta | nāma | aghnyā | bibharti | vidvān | padasya | guhyā | na | vocat | yugāya | vipraḥ | uparāya | śikṣan