Sukta 7.87
परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके । ऋतावानः कवयो यज्ञधीराः प्रचेतसो य इषयन्त मन्म ॥
परि॒ स्पशो॒ वरु॑णस्य॒ स्मदि॑ष्टा उ॒भे प॑श्यन्ति॒ रोद॑सी सु॒मेके॑ । ऋ॒तावा॑नः क॒वयो॑ य॒ज्ञधी॑रा॒: प्रचे॑तसो॒ य इ॒षय॑न्त॒ मन्म॑ ॥
pári spáśo váruṇasya smádiṣṭā ubhé paśyanti ródasī suméke | ṛtā́vānaḥ kaváyo yajñádhīrāḥ prá-cetaso yá iṣáyanta mánma ||
All around, the watchers of Varuṇa—most mindful—behold the two worlds in their fair ordering. The seers who are filled with ṛta, wise in the sacrifice and luminous in discernment, impel within us the inspired thought toward the Truth.
परि॑ । स्पशः॑ । वरु॑णस्य । स्मत्ऽइ॑ष्टाः । उ॒भे इति॑ । प॒श्य॒न्ति॒ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । ऋ॒तऽवा॑नः । क॒वयः॑ । य॒ज्ञऽधी॑राः । प्रऽचे॑तसः । ये । इ॒षय॑न्त । मन्म॑ ॥परि । स्पशः । वरुणस्य । स्मत्इष्टाः । उभे इति । पश्यन्ति । रोदसी इति । सुमेके इति सुमेके । ऋतवानः । कवयः । यज्ञधीराः । प्रचेतसः । ये । इषयन्त । मन्म ॥pari | spaśaḥ | varuṇasya | smat-iṣṭāḥ | ubhe iti | paśyanti | rodasī iti | sumeke itisu-meke | ṛta-vānaḥ | kavayaḥ | yajña-dhīrāḥ | pra-cetasaḥ | ye | iṣayanta | manma