Sukta 7.85
स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतन्ति । युवं ताँ इन्द्रावरुणावमित्रान्हतं पराचः शर्वा विषूचः ॥
स्पर्ध॑न्ते॒ वा उ॑ देव॒हूये॒ अत्र॒ येषु॑ ध्व॒जेषु॑ दि॒द्यव॒: पत॑न्ति । यु॒वं ताँ इ॑न्द्रावरुणाव॒मित्रा॑न्ह॒तं परा॑च॒: शर्वा॒ विषू॑चः ॥
spárdhante vá u deva-hū́ye átra yéṣu dhvajéṣu didyávaḥ pátanti | yuváṃ tā́n indrāvaruṇāv amítrān hatáṃ parā́caḥ śárvā víṣūcaḥ ||
Here they strive in the god-invoking clash, where the flashing lights fall upon the battle-standards. You two, O Indra and Varuṇa, strike down those hostile powers—drive them far away, shattered and scattered.
स्पर्ध॑न्ते । वै । ऊँ॒ इति॑ । दे॒व॒ऽहूये॑ । अत्र॑ । येषु॑ । ध्व॒जेषु॑ । दि॒द्यवः॑ । पत॑न्ति । यु॒वम् । तान् । इ॒न्द्रा॒व॒रु॒णौ॒ । अ॒मित्रा॑न् । ह॒तम् । परा॑चः । शर्वा॑ । विषू॑चः ॥स्पर्धन्ते । वै । ऊँ इति । देवहूये । अत्र । येषु । ध्वजेषु । दिद्यवः । पतन्ति । युवम् । तान् । इन्द्रावरुणौ । अमित्रान् । हतम् । पराचः । शर्वा । विषूचः ॥spardhante | vai | oṃ iti | deva-hūye | atra | yeṣu | dhvajeṣu | didyavaḥ | patanti | yuvam | tān | indrāvaruṇau | amitrān | hatam | parācaḥ | śarvā | viṣūcaḥ