Sukta 7.85
पुनीषे वामरक्षसं मनीषां सोममिन्द्राय वरुणाय जुह्वत् । घृतप्रतीकामुषसं न देवीं ता नो यामन्नुरुष्यतामभीके ॥
पु॒नी॒षे वा॑मर॒क्षसं॑ मनी॒षां सोम॒मिन्द्रा॑य॒ वरु॑णाय॒ जुह्व॑त् । घृ॒तप्र॑तीकामु॒षसं॒ न दे॒वीं ता नो॒ याम॑न्नुरुष्यताम॒भीके॑ ॥
punī́ṣe vāṃ arakṣásaṃ manīṣā́ṃ sómam índrāya váruṇāya júhvat | ghṛtá-pratīkām uṣásaṃ ná devī́ṃ tā́ no yā́mann uruṣyatām abhī́ke ||
I purify for you two a thought free from hostile powers, offering the Soma to Indra and to Varuṇa. Like the goddess Dawn with her ghee-bright face, may you two protect us on the journey, close at hand.
पु॒नी॒षे । वा॒म् । अ॒र॒क्षस॑म् । म॒नी॒षाम् । सोम॑म् । इन्द्रा॑य । वरु॑णा॒य । जुह्व॑त् । घृ॒तऽप्र॑तीकाम् । उ॒षस॑म् । न । दे॒वीम् । ता । नः॒ । याम॑न् । उ॒रु॒ष्य॒ता॒म् । अ॒भीके॑ ॥पुनीषे । वाम् । अरक्षसम् । मनीषाम् । सोमम् । इन्द्राय । वरुणाय । जुह्वत् । घृतप्रतीकाम् । उषसम् । न । देवीम् । ता । नः । यामन् । उरुष्यताम् । अभीके ॥punīṣe | vām | arakṣasam | manīṣām | somam | indrāya | varuṇāya | juhvat | ghṛta-pratīkām | uṣasam | na | devīm | tā | naḥ | yāman | uruṣyatām | abhīke