Sukta 7.83
वृत्राण्यन्यः समिथेषु जिघ्नते व्रतान्यन्यो अभि रक्षते सदा । हवामहे वां वृषणा सुवृक्तिभिरस्मे इन्द्रावरुणा शर्म यच्छतम् ॥
वृ॒त्राण्य॒न्यः स॑मि॒थेषु॒ जिघ्न॑ते व्र॒तान्य॒न्यो अ॒भि र॑क्षते॒ सदा॑ । हवा॑महे वां वृषणा सुवृ॒क्तिभि॑र॒स्मे इ॑न्द्रावरुणा॒ शर्म॑ यच्छतम् ॥
vṛtrā́ṇy anyáḥ samithéṣu jíghnate vratā́ny anyó abhí rakṣate sádā | havā́mahe vāṃ vṛṣaṇā suvṛ́ktibhir asmé indrāvaruṇā śárma yacchatam ||
One of you strikes down the Vṛtra-coverings in the battles; the other guards the eternal laws of the right working. We call you two, O mighty ones, with well-fashioned words—grant to us the peace and shelter in which the soul can widen and endure.
वृ॒त्राणि॑ । अ॒न्यः । स॒म्ऽइ॒थेषु॑ । जिघ्न॑ते । व्र॒तानि॑ । अ॒न्यः । अ॒भि । र॒क्ष॒ते॒ । सदा॑ । हवा॑महे । वा॒म् । वृ॒ष॒णा॒ । सु॒वृ॒क्तिऽभिः॑ । अ॒स्मे इति॑ । इ॒न्द्रा॒व॒रु॒णा॒ । शर्म॑ । य॒च्छ॒त॒म् ॥वृत्राणि । अन्यः । सम्इथेषु । जिघ्नते । व्रतानि । अन्यः । अभि । रक्षते । सदा । हवामहे । वाम् । वृषणा । सुवृक्तिभिः । अस्मे इति । इन्द्रावरुणा । शर्म । यच्छतम् ॥vṛtrāṇi | anyaḥ | sam-itheṣu | jighnate | vratāni | anyaḥ | abhi | rakṣate | sadā | havāmahe | vām | vṛṣaṇā | suvṛkti-bhiḥ | asme iti | indrāvaruṇā | śarma | yacchatam