Sukta 7.83
अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः । अवध्रं ज्योतिरदितेॠतावृधो देवस्य श्लोकं सवितुर्मनामहे ॥
अ॒स्मे इन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा द्यु॒म्नं य॑च्छन्तु॒ महि॒ शर्म॑ स॒प्रथ॑: । अ॒व॒ध्रं ज्योति॒रदि॑तेॠता॒वृधो॑ दे॒वस्य॒ श्लोकं॑ सवि॒तुर्म॑नामहे ॥
asmé índro váruṇo mitró aryámā dyumnáṃ yacchantu máhi śárma sa-práthaḥ | avadhráṃ jyótir áditer ṛtā-vṛ́dho devásya ślókāṃ savitúr manāmahe ||
In us may Indra and Varuṇa, Mitra and Aryaman establish the luminous plenitude, the vast and all-spreading peace. We contemplate the unfallen Light of Aditi, increased by the growth of the Truth; we hold in mind the inspired utterance of the divine Savitṛ.
अ॒स्मे इति॑ । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । द्यु॒म्नम् । य॒च्छ॒न्तु॒ । महि॑ । शर्म॑ । स॒ऽप्रथः॑ । अ॒व॒ध्रम् । ज्योतिः॑ । अदि॑तेः । ऋ॒त॒ऽवृधः॑ । दे॒वस्य॑ । श्लोक॑म् । स॒वि॒तुः । म॒ना॒म॒हे॒ ॥अस्मे इति । इन्द्रः । वरुणः । मित्रः । अर्यमा । द्युम्नम् । यच्छन्तु । महि । शर्म । सप्रथः । अवध्रम् । ज्योतिः । अदितेः । ऋतवृधः । देवस्य । श्लोकम् । सवितुः । मनामहे ॥asme iti | indraḥ | varuṇaḥ | mitraḥ | aryamā | dyumnam | yacchantu | mahi | śarma | sa-prathaḥ | avadhram | jyotiḥ | aditeḥ | ṛta-vṛdhaḥ | devasya | ślokam | savituḥ | manāmahe