Sukta 7.80
एषा स्या नव्यमायुर्दधाना गूढ्वी तमो ज्योतिषोषा अबोधि । अग्र एति युवतिरह्रयाणा प्राचिकितत्सूर्यं यज्ञमग्निम् ॥
ए॒षा स्या नव्य॒मायु॒र्दधा॑ना गू॒ढ्वी तमो॒ ज्योति॑षो॒षा अ॑बोधि । अग्र॑ एति युव॒तिरह्र॑याणा॒ प्राचि॑कित॒त्सूर्यं॑ य॒ज्ञम॒ग्निम् ॥
eṣā́ syā́ návyam ā́yur dádhānā gūḍhvī́ támo jyótiṣoṣā́ abodhi | ágre eti yuvatír áhrayāṇā prá acikitat sū́ryaṃ yajñám agním ||
This Dawn has awakened, carrying a renewed life and hiding the darkness by her light; the young maiden moves in front, unwearied, and she makes us perceive forward the Sun, the Sacrifice, and Agni—the divine Will at the head.
ए॒षा । स्या । नव्य॑म् । आयुः॑ । दधा॑ना । गू॒ध्वी । तमः॑ । ज्योति॑षा॑ । उ॒षाः । अ॒बो॒धि॒ । अग्रे॑ । ए॒ति॒ । यु॒व॒तिः । अह्र॑याणा । प्र । अ॒चि॒कि॒त॒त् । सूर्य॑म् । य॒ज्ञम् । अ॒ग्निम् ॥एषा । स्या । नव्यम् । आयुः । दधाना । गूध्वी । तमः । ज्योतिषा । उषाः । अबोधि । अग्रे । एति । युवतिः । अह्रयाणा । प्र । अचिकितत् । सूर्यम् । यज्ञम् । अग्निम् ॥eṣā | syā | navyam | āyuḥ | dadhānā | gūdhvī | tamaḥ | jyotiṣā | uṣāḥ | abodhi | agre | eti | yuvatiḥ | ahrayāṇā | pra | acikitat | sūryam | yajñam | agnim