Sukta 7.80
प्रति स्तोमेभिरुषसं वसिष्ठा गीर्भिर्विप्रासः प्रथमा अबुध्रन् । विवर्तयन्तीं रजसी समन्ते आविष्कृण्वतीं भुवनानि विश्वा ॥
प्रति॒ स्तोमे॑भिरु॒षसं॒ वसि॑ष्ठा गी॒र्भिर्विप्रा॑सः प्रथ॒मा अ॑बुध्रन् । वि॒व॒र्तय॑न्तीं॒ रज॑सी॒ सम॑न्ते आविष्कृण्व॒तीं भुव॑नानि॒ विश्वा॑ ॥
práti stómebhir uṣásaṃ vásiṣṭhā gīrbhír víprāsaḥ prathamā́ abudhran | vivartáyantīṃ rájasī samánté āvíḥ-kṛṇvatīṃ bhúvanāni víśvā ||
With hymns the Vasiṣṭhas, the seers, are the first to awaken to Dawn; she who turns the two worlds of space on every side and makes all the planes of existence manifest to the sight.
प्रति॑ । स्तोमे॑भिः । उ॒षस॑म् । वसि॑ष्ठाः । गीः॒ऽभिः । विप्रा॑सः । प्र॒थ॒माः । अ॒बु॒ध्र॒न् । वि॒व॒र्तय॑न्तीम् । रज॑सी॒ इति॑ । सम॑न्ते॒ इति॒ सम्ऽअ॑न्ते । आ॒विः॒ऽकृ॒ण्व॒तीम् । भुव॑नानि । विश्वा॑ ॥प्रति । स्तोमेभिः । उषसम् । वसिष्ठाः । गीःभिः । विप्रासः । प्रथमाः । अबुध्रन् । विवर्तयन्तीम् । रजसी इति । समन्ते इति सम्अन्ते । आविःकृण्वतीम् । भुवनानि । विश्वा ॥prati | stomebhiḥ | uṣasam | vasiṣṭhāḥ | gīḥ-bhiḥ | viprāsaḥ | prathamāḥ | abudhran | vivartayantīm | rajasī iti | samanteitisam-ante | āviḥ-kṛṇvatīm | bhuvanāni | viśvā