Sukta 7.8
इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट द्विबर्हाः । शं यत्स्तोतृभ्य आपये भवाति द्युमदमीवचातनं रक्षोहा ॥
इ॒दं वच॑: शत॒साः संस॑हस्र॒मुद॒ग्नये॑ जनिषीष्ट द्वि॒बर्हा॑: । शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑ति द्यु॒मद॑मीव॒चात॑नं रक्षो॒हा ॥
idáṃ vácaḥ śatá-sāḥ sáṃsahasram úd agnáye janiṣīṣṭa dví-bárhāḥ | śáṃ yát stotṛ́bhya ā́paye bhávāti dyumád amīva-cā́tanaṃ rakṣó-hā ||
This word, hundred-powered, thousand-fold, let it be born upward for Agni, O double-bearing one. May it become peace and fullness for the singers to drink—luminous, a driving-away of disease, a slayer of the hostile darkness (rakṣas).
इ॒दम् । वचः॑ । श॒त॒ऽसाः । सम्ऽस॑हस्रम् । उत् । अ॒ग्नये॑ । ज॒नि॒षी॒ष्ट॒ । द्वि॒ऽबर्हाः॑ । शम् । यत् । स्तो॒तृऽभ्यः॑ । आ॒पये॑ । भवा॑ति । द्यु॒ऽमत् । अ॒मी॒व॒ऽचात॑नम् । र॒क्षः॒ऽहा ॥इदम् । वचः । शतसाः । सम्सहस्रम् । उत् । अग्नये । जनिषीष्ट । द्विबर्हाः । शम् । यत् । स्तोतृभ्यः । आपये । भवाति । द्युमत् । अमीवचातनम् । रक्षःहा ॥idam | vacaḥ | śata-sāḥ | sam-sahasram | ut | agnaye | janiṣīṣṭa | dvi-bahārḥ | śam | yat | stotṛ-bhyaḥ | āpaye | bhavāti | dyu-mat | amīva-cātanam | rakṣaḥ-hā