Sukta 7.8
नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् । इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः ॥
नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा ईशा॒नं सू॑नो सहसो॒ वसू॑नाम् । इषं॑ स्तो॒तृभ्यो॑ म॒घव॑द्भ्य आनड्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
nū́ tvām agne ī́mahe vásiṣṭhā īśānáṃ sū́no sahaso vásūnām | íṣaṃ stotṛ́bhyo maghávadbhya ā́naḍ yūyám pāta svastíbhíḥ sádā naḥ ||
Now we seek you, O Agni— we, the Vasiṣṭhas— you the sovereign, O son of Force, of all riches. Give the impulsion and nourishment to the singers, to the bounteous; and may you protect us always with well-being.
नु । त्वाम् । अ॒ग्ने॒ । ई॒म॒हे॒ । वसि॑ष्ठाः । ई॒शा॒नम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वसू॑नाम् । इष॑म् । स्तो॒तृऽभ्यः॑ । म॒घव॑त्ऽभ्यः । आ॒न॒ट् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥नु । त्वाम् । अग्ने । ईमहे । वसिष्ठाः । ईशानम् । सूनो इति । सहसः । वसूनाम् । इषम् । स्तोतृभ्यः । मघवत्भ्यः । आनट् । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥nu | tvām | agne | īmahe | vasiṣṭhāḥ | īśānam | sūno | iti | sahasaḥ | vasūnām | iṣam | stotṛ-bhyaḥ | maghavat-bhyaḥ | ānaṭ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ