Sukta 7.8
कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधामृणवः शस्यमानः । कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥
कया॑ नो अग्ने॒ वि व॑सः सुवृ॒क्तिं कामु॑ स्व॒धामृ॑णवः श॒स्यमा॑नः । क॒दा भ॑वेम॒ पत॑यः सुदत्र रा॒यो व॒न्तारो॑ दु॒ष्टर॑स्य सा॒धोः ॥
kayā́ no agne ví vasah suvṛktíṃ kā́m u svadhā́m ṛṇavaḥ śasyámānaḥ | kadā́ bhavema pátayaḥ sudatra rāyó vantā́ro duṣṭárasya sādhóḥ ||
By what path, O Agni, will you open for us the perfect utterance, and by what desire will you grant the self-law, as we are being praised? When shall we become masters, O good giver, enjoyers of the riches—conquerors of the difficult-to-cross achievement?
कया॑ । नः॒ । अ॒ग्ने॒ । वि । व॒सः॒ । सु॒ऽवृ॒क्तिम् । काम् । ऊँ॒ इति॑ । स्व॒धाम् । ऋ॒ण॒वः॒ । श॒स्यमा॑नः । क॒दा । भ॒वे॒म॒ । पत॑यः । सु॒ऽद॒त्र॒ । रा॒यः । व॒न्तारः॑ । दु॒स्तर॑स्य । सा॒धोः ॥कया । नः । अग्ने । वि । वसः । सुवृक्तिम् । काम् । ऊँ इति । स्वधाम् । ऋणवः । शस्यमानः । कदा । भवेम । पतयः । सुदत्र । रायः । वन्तारः । दुस्तरस्य । साधोः ॥kayā | naḥ | agne | vi | vasaḥ | su-vṛktim | kām | oṃ iti | svadhām | ṛṇavaḥ | śasyamānaḥ | kadā | bhavema | patayaḥ | su-datra | rāyaḥ | vantāraḥ | dustarasya | sādhoḥ