Sukta 7.8
अयमु ष्य सुमहाँ अवेदि होता मन्द्रो मनुषो यह्वो अग्निः । वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे ॥
अ॒यमु॒ ष्य सुम॑हाँ अवेदि॒ होता॑ म॒न्द्रो मनु॑षो य॒ह्वो अ॒ग्निः । वि भा अ॑कः ससृजा॒नः पृ॑थि॒व्यां कृ॒ष्णप॑वि॒रोष॑धीभिर्ववक्षे ॥
ayám u ṣyá sumáhā̃ avedi hótā mandró mánuṣo yahvó agníḥ | ví bhā́ akāḥ sasṛjānáḥ pṛthivyā́ṃ kṛṣṇápavir oṣádhībhir vavakṣe ||
This one indeed, the greatly vast, has been made known—the priest of man, the gladdening, the impetuous Agni. He has made the radiances spread out, being poured forth upon the earth; with his dark-edged force he has clothed himself in the plants (the forms of life).
अ॒यम् । ऊँ॒ इति॑ । स्यः । सुऽम॑हान् । अ॒वे॒दि॒ । होता॑ । म॒न्द्रः । मनु॑षः । य॒ह्वः । अ॒ग्निः । वि । भाः । अ॒क॒रित्य॑कः । स॒सृ॒जा॒नः । पृ॒थि॒व्याम् । कृ॒ष्णऽप॑विः । ओष॑धीभिः । व॒व॒क्षे॒ ॥अयम् । ऊँ इति । स्यः । सुमहान् । अवेदि । होता । मन्द्रः । मनुषः । यह्वः । अग्निः । वि । भाः । अकरित्यकः । ससृजानः । पृथिव्याम् । कृष्णपविः । ओषधीभिः । ववक्षे ॥ayam | oṃ iti | syaḥ | su-mahān | avedi | hotā | mandraḥ | manuṣaḥ | yahvaḥ | agniḥ | vi | bhāḥ | akar ity akaḥ | sasṛjānaḥ | pṛthivyām | kṛṣṇa-paviḥ | oṣadhībhiḥ | vavakṣe