Sukta 7.8
इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन । नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥
इ॒न्धे राजा॒ सम॒र्यो नमो॑भि॒र्यस्य॒ प्रती॑क॒माहु॑तं घृ॒तेन॑ । नरो॑ ह॒व्येभि॑रीळते स॒बाध॒ आग्निरग्र॑ उ॒षसा॑मशोचि ॥
indhé rājā́ sámaryo námobhir yásya pratī́kam ā́hutaṃ ghṛténa | náro havyébhiḥ īḷate sabā́dha ā́gnir ágre uṣásām aśoci ||
The King is kindled, the noble Aryan, by acts of reverence—he whose face is offered with clarified light. Men adore him with the oblations, pressing close; Agni has shone out in front of the Dawns.
इ॒न्धे । राजा॑ । सम् । अ॒र्यः । नमः॑ऽभिः । यस्य॑ । प्रती॑कम् । आऽहु॑तम् । घृ॒तेन॑ । नरः॑ । ह॒व्येभिः॑ । ई॒ळ॒ते॒ । स॒ऽबाधः॑ । आ । अ॒ग्निः । अग्रे॑ । उ॒षसा॑म् । अ॒शो॒चि॒ ॥इन्धे । राजा । सम् । अर्यः । नमःभिः । यस्य । प्रतीकम् । आहुतम् । घृतेन । नरः । हव्येभिः । ईळते । सबाधः । आ । अग्निः । अग्रे । उषसाम् । अशोचि ॥indhe | rājā | sam | aryaḥ | namaḥ-bhiḥ | yasya | pratīkam | āhutam | ghṛtena | naraḥ | havyebhiḥ | īḷate | sa-bādhaḥ | ā | agniḥ | agre | uṣasām | aśoci