Sukta 7.78
एता उ त्याः प्रत्यदृश्रन्पुरस्ताज्ज्योतिर्यच्छन्तीरुषसो विभातीः । अजीजनन्त्सूर्यं यज्ञमग्निमपाचीनं तमो अगादजुष्टम् ॥
ए॒ता उ॒ त्याः प्रत्य॑दृश्रन्पु॒रस्ता॒ज्ज्योति॒र्यच्छ॑न्तीरु॒षसो॑ विभा॒तीः । अजी॑जन॒न्त्सूर्यं॑ य॒ज्ञम॒ग्निम॑पा॒चीनं॒ तमो॑ अगा॒दजु॑ष्टम् ॥
etā́ u tyā́ḥ práty adṛśran purástāj jyótir yácchantīr uṣáso vibhātī́ḥ | ájījanan sū́ryaṃ yajñám agním apācī́naṃ támo agād ájuṣṭam ||
These Dawns indeed have appeared in front, holding out the light as they shine. They have brought to birth the Sun, the Sacrifice, and the Fire; and the darkness, turned away from the path, has gone—unwelcome to the soul.
ए॒ताः । ऊँ॒ इति॑ । त्याः । प्रति॑ । अ॒दृ॒श्र॒न् । पु॒रस्ता॑त् । ज्योतिः॑ । यच्छ॑न्तीः । उ॒षसः॑ । वि॒ऽभा॒तीः । अजी॑जनन् । सूर्य॑म् । य॒ज्ञम् । अ॒ग्निम् । अ॒पा॒चीन॑म् । तमः॑ । अ॒गा॒त् । अजु॑ष्टम् ॥एताः । ऊँ इति । त्याः । प्रति । अदृश्रन् । पुरस्तात् । ज्योतिः । यच्छन्तीः । उषसः । विभातीः । अजीजनन् । सूर्यम् । यज्ञम् । अग्निम् । अपाचीनम् । तमः । अगात् । अजुष्टम् ॥etāḥ | oṃ iti | tyāḥ | prati | adṛśran | purastāt | jyotiḥ | yacchantīḥ | uṣasaḥ | vi-bhātīḥ | ajījanan | sūryam | yajñam | agnim | apācīnam | tamaḥ | agāt | ajuṣṭam