Sukta 7.75
व्युषा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानमागात् । अप द्रुहस्तम आवरजुष्टमङ्गिरस्तमा पथ्या अजीगः ॥
व्यु१॒॑षा आ॑वो दिवि॒जा ऋ॒तेना॑विष्कृण्वा॒ना म॑हि॒मान॒मागा॑त् । अप॒ द्रुह॒स्तम॑ आव॒रजु॑ष्ट॒मङ्गि॑रस्तमा प॒थ्या॑ अजीगः ॥
vy ùṣā́ āvo divi-jā́ ṛténa āviḥ-kṛṇvānā mahimā́nam ā́gāt | ápá drúhas táma ā́var ájuṣṭam aṅgiras-tamā pathyā́ ajīgaḥ ||
Dawn has shone forth—heaven-born—by the Truth (ṛta), making manifest her greatness. She has driven away the deceiver’s darkness, the unwelcomed covering; most Angiras-like, she has stirred the paths into motion.
वि । उ॒षाः । आ॒वः॒ । दि॒वि॒ऽजाः । ऋ॒तेन॑ । आ॒विः॒ऽकृ॒ण्वा॒ना । म॒हि॒मान॑म् । आ । अ॒गा॒त् । अप॑ । द्रुहः॑ । तमः॑ । आ॒वः॒ । अजु॑ष्टम् । अङ्गि॑रःऽतमा । प॒थ्याः॑ । अ॒जी॒ग॒रिति॑ ॥वि । उषाः । आवः । दिविजाः । ऋतेन । आविःकृण्वाना । महिमानम् । आ । अगात् । अप । द्रुहः । तमः । आवः । अजुष्टम् । अङ्गिरःतमा । पथ्याः । अजीगरिति ॥vi | uṣāḥ | āvaḥ | divi-jāḥ | ṛtena | āviḥ-kṛṇvānā | mahimānam | ā | agāt | apa | druhaḥ | tamaḥ | āvaḥ | ajuṣṭam | aṅgiraḥ-tamā | pathyāḥ | ajīgariti