Sukta 7.73
उप त्या वह्नी गमतो विशं नो रक्षोहणा सम्भृता वीळुपाणी । समन्धांस्यग्मत मत्सराणि मा नो मर्धिष्टमा गतं शिवेन ॥
उप॒ त्या वह्नी॑ गमतो॒ विशं॑ नो रक्षो॒हणा॒ सम्भृ॑ता वी॒ळुपा॑णी । समन्धां॑स्यग्मत मत्स॒राणि॒ मा नो॑ मर्धिष्ट॒मा ग॑तं शि॒वेन॑ ॥
úpa tyā́ vahnī́ gamato víśaṃ no rakṣoháṇā sámbhṛtā vīḷúpāṇī | sám andhā́ṃsy agmat matsarā́ṇi mā́ no mardhiṣṭam ā́ gataṃ śivéna ||
Come near, you two bearers of the flame-force, to our people—slayers of the hostile obscurers, well-equipped, strong-handed. Let the blind darknesses and the intoxications of ego depart; do not crush us—arrive with your benign and healing power.
उप॑ । त्या । वह्नी॒ इति॑ । ग॒म॒तः॒ । विश॑म् । नः॒ । र॒क्षः॒ऽहना॑ । सम्ऽभृ॑ता । वी॒ळुपा॑णी॒ इति॑ वी॒ळुऽपा॑णी । सम् । अन्धां॑सि । अ॒ग्म॒त॒ । म॒त्स॒राणि॑ । मा । नः॒ । म॒र्धि॒ष्ट॒म् । आ । ग॒त॒म् । शि॒वेन॑ ॥उप । त्या । वह्नी इति । गमतः । विशम् । नः । रक्षःहना । सम्भृता । वीळुपाणी इति वीळुपाणी । सम् । अन्धांसि । अग्मत । मत्सराणि । मा । नः । मर्धिष्टम् । आ । गतम् । शिवेन ॥upa | tyā | vahnī iti | gamataḥ | viśam | naḥ | rakṣaḥ-hanā | sam-bhṛtā | vīḷupāṇī itivīḷu-pāṇī | sam | andhāṃsi | agmata | matsarāṇi | mā | naḥ | mardhiṣṭam | ā | gatam | śivena