Sukta 7.73
अहेम यज्ञं पथामुराणा इमां सुवृक्तिं वृषणा जुषेथाम् । श्रुष्टीवेव प्रेषितो वामबोधि प्रति स्तोमैर्जरमाणो वसिष्ठः ॥
अहे॑म य॒ज्ञं प॒थामु॑रा॒णा इ॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् । श्रु॒ष्टी॒वेव॒ प्रेषि॑तो वामबोधि॒ प्रति॒ स्तोमै॒र्जर॑माणो॒ वसि॑ष्ठः ॥
áhema yajñáṃ pathā́m urāṇā́ imā́ṃ suvṛktíṃ vṛṣaṇā juṣethām | śruṣṭī́veva préṣito vām abodhi práti stómair jarámāṇo vásiṣṭhaḥ ||
We have driven the sacrifice forward on its paths; accept this well-shaped utterance, O mighty ones. Like a charioteer urged on, Vasiṣṭha has awakened to you, answering with hymns as he grows in the ripening of the work.
अहे॑म । य॒ज्ञम् । प॒थाम् । उ॒रा॒णाः । इ॒माम् । सु॒ऽवृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् । श्रु॒ष्टी॒वाऽइ॑व । प्रऽइ॑षितः । वा॒म् । अ॒बो॒धि॒ । प्रति॑ । स्तोमैः॑ । जर॑माणः । वसि॑ष्ठः ॥अहेम । यज्ञम् । पथाम् । उराणाः । इमाम् । सुवृक्तिम् । वृषणा । जुषेथाम् । श्रुष्टीवाइव । प्रइषितः । वाम् । अबोधि । प्रति । स्तोमैः । जरमाणः । वसिष्ठः ॥ahema | yajñam | pathām | urāṇāḥ | imām | su-vṛktim | vṛṣaṇā | juṣethām | śruṣṭīvāiva | pra-iṣitaḥ | vām | abodhi | prati | stomaiḥ | jaramāṇaḥ | vasiṣṭhaḥ