Sukta 7.73
आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् । आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥
आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् । आ वि॒श्वत॒: पाञ्च॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
ā́ paścā́tān nāsatyā purástād ā́śvinā yātam adharā́d údaktāt | ā́ víśvataḥ pā́ñcajanyena rāyā́ yūyáṃ pāta svastíbhiḥ sádā naḥ ||
Come from behind and from before, O Nāsatyas; come, O Aśvins, from below and from above. Come from every side with the plenitude that sustains the fivefold human being; with your powers of well-being protect us always.
आ । प॒श्चाता॑त् । ना॒स॒त्या॒ । आ । पु॒रस्ता॑त् । आ । अ॒श्वि॒ना॒ । या॒त॒म् । अ॒ध॒रात् । उद॑क्तात् । आ । वि॒श्वतः॑ । पाञ्च॑ऽजन्येन । रा॒या । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥आ । पश्चातात् । नासत्या । आ । पुरस्तात् । आ । अश्विना । यातम् । अधरात् । उदक्तात् । आ । विश्वतः । पाञ्चजन्येन । राया । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥ā | paścātāt | nāsatyā | ā | purastāt | ā | aśvinā | yātam | adharāt | udaktāt | ā | viśvataḥ | pāñca-janyena | rāyā | yūyam | pāta | svasti-bhiḥ | sadā | naḥ