Sukta 7.73
न्यु प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च । अश्नीतं मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् ॥
न्यु॑ प्रि॒यो मनु॑षः सादि॒ होता॒ नास॑त्या॒ यो यज॑ते॒ वन्द॑ते च । अ॒श्नी॒तं मध्वो॑ अश्विना उपा॒क आ वां॑ वोचे वि॒दथे॑षु॒ प्रय॑स्वान् ॥
ny ù priyó mánuṣaḥ sā́di hótā nā́satyā yó yájate vándate ca | aśnī́taṃ mádhvo aśvinā upāká ā́ vāṃ vóce vidátheṣu práyasvān ||
Now may the dear priest of man take his seat—he who sacrifices and adores you, O Nāsatyas. Taste the honeyed delight, O Aśvins, close at hand; and I, rich in offering-energy, will voice you forth in the assemblies of seeking.
नि । ऊँ॒ इति॑ । प्रि॒यः । मनु॑षः । सा॒दि॒ । होता॑ । नास॑त्या । यः । यज॑ते । वन्द॑ते । च॒ । अ॒श्नी॒तम् । मध्वः॑ । अ॒श्वि॒नौ॒ । उ॒पा॒के । आ । वा॒म् । वो॒चे॒ । वि॒दथे॑षु । प्रय॑स्वान् ॥नि । ऊँ इति । प्रियः । मनुषः । सादि । होता । नासत्या । यः । यजते । वन्दते । च । अश्नीतम् । मध्वः । अश्विनौ । उपाके । आ । वाम् । वोचे । विदथेषु । प्रयस्वान् ॥ni | oṃ iti | priyaḥ | manuṣaḥ | sādi | hotā | nāsatyā | yaḥ | yajate | vandate | ca | aśnītam | madhvaḥ | aśvinau | upāke | ā | vām | voce | vidatheṣu | prayasvān