Sukta 7.72
उदु स्तोमासो अश्विनोरबुध्रञ्जामि ब्रह्माण्युषसश्च देवीः । आविवासन्रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति ॥
उदु॒ स्तोमा॑सो अ॒श्विनो॑रबुध्रञ्जा॒मि ब्रह्मा॑ण्यु॒षस॑श्च दे॒वीः । आ॒विवा॑स॒न्रोद॑सी॒ धिष्ण्ये॒मे अच्छा॒ विप्रो॒ नास॑त्या विवक्ति ॥
úd u stomā́so aśvínor abudhran jā́mi bráhmāṇy uṣásas ca devī́ḥ | ā́vivāsan ródasī dhiṣṇyéme ácchā vipró nā́satyā vivakti ||
Up have awakened the hymns for the Aśvins, and the familiar sacred words, and Dawn the goddess. These two worlds are made ready for adoration; the inspired seer leads (his call) towards the Nāsatyas.
उत् । ऊँ॒ इति॑ । स्तोमा॑सः । अ॒श्विनोः॑ । अ॒बु॒ध्र॒न् । जा॒मि । ब्रह्मा॑णि । उ॒षसः॑ । च॒ । दे॒वीः । आ॒ऽविवा॑सन् । रोद॑सी॒ इति॑ । धिष्ण्ये॒ इति॑ । इ॒मे इति॑ । अच्छ॑ । विप्रः॑ । नास॑त्या । वि॒व॒क्ति॒ ॥उत् । ऊँ इति । स्तोमासः । अश्विनोः । अबुध्रन् । जामि । ब्रह्माणि । उषसः । च । देवीः । आविवासन् । रोदसी इति । धिष्ण्ये इति । इमे इति । अच्छ । विप्रः । नासत्या । विवक्ति ॥ut | oṃ iti | stomāsaḥ | aśvinoḥ | abudhran | jāmi | brahmāṇi | uṣasaḥ | ca | devīḥ | āvivāsan | rodasī iti | dhiṣṇyeiti | ime iti | accha | vipraḥ | nāsatyā | vivakti