Sukta 7.72
आ नो देवेभिरुप यातमर्वाक्सजोषसा नासत्या रथेन । युवोर्हि नः सख्या पित्र्याणि समानो बन्धुरुत तस्य वित्तम् ॥
आ नो॑ दे॒वेभि॒रुप॑ यातम॒र्वाक्स॒जोष॑सा नासत्या॒ रथे॑न । यु॒वोर्हि न॑: स॒ख्या पित्र्या॑णि समा॒नो बन्धु॑रु॒त तस्य॑ वित्तम् ॥
ā́ no devébhi rupá yātam arvā́k sajóṣasā nāsatyā ráthena | yuvór hí naḥ sakhyā́ pitryā́ṇi samā́nō bándhur utá tásya vittám ||
Come to us from near, together with the gods, O Nāsatyas, in one accord in your chariot. For with you is our ancestral friendship; the bond is one, and you know well the truth of that kinship.
आ । नः॒ । दे॒वेभिः॑ । उप॑ । या॒त॒म् । अ॒र्वाक् । स॒ऽजोष॑सा । ना॒स॒त्या॒ । रथे॑न । यु॒वोः । हि । नः॒ । स॒ख्या । पित्र्या॑णि । स॒मा॒नः । बन्धुः॑ । उ॒त । तस्य॑ । वि॒त्त॒म् ॥आ । नः । देवेभिः । उप । यातम् । अर्वाक् । सजोषसा । नासत्या । रथेन । युवोः । हि । नः । सख्या । पित्र्याणि । समानः । बन्धुः । उत । तस्य । वित्तम् ॥ā | naḥ | devebhiḥ | upa | yātam | arvāk | sa-joṣasā | nāsatyā | rathena | yuvoḥ | hi | naḥ | sakhyā | pitryāṇi | samānaḥ | bandhuḥ | uta | tasya | vittam