Sukta 7.72
वि चेदुच्छन्त्यश्विना उषासः प्र वां ब्रह्माणि कारवो भरन्ते । ऊर्ध्वं भानुं सविता देवो अश्रेद्बृहदग्नयः समिधा जरन्ते ॥
वि चेदु॒च्छन्त्य॑श्विना उ॒षास॒: प्र वां॒ ब्रह्मा॑णि का॒रवो॑ भरन्ते । ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्बृ॒हद॒ग्नय॑: स॒मिधा॑ जरन्ते ॥
ví ced ucchánty aśvinā uṣā́saḥ prá vāṃ bráhmāṇi kā́ravo bharante | ūrdhvám bhā́nuṃ savitā́ devó aśred bṛhád agnáyaḥ samídhā jarante ||
When the Dawns shine forth, O Aśvins, the singers bring forward to you the sacred words. Savitṛ has lifted high the beam of light, and the great fires, fed by kindling, blaze upward.
वि । च॒ । इत् । उ॒च्छन्ति॑ । अ॒श्वि॒नौ॒ । उ॒षसः॑ । प्र । वा॒म् । ब्रह्मा॑णि । का॒रवः॑ । भ॒र॒न्ते॒ । ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । बृ॒हत् । अ॒ग्नयः॑ । स॒म्ऽइधा॑ । ज॒र॒न्ते॒ ॥वि । च । इत् । उच्छन्ति । अश्विनौ । उषसः । प्र । वाम् । ब्रह्माणि । कारवः । भरन्ते । ऊर्ध्वम् । भानुम् । सविता । देवः । अश्रेत् । बृहत् । अग्नयः । सम्इधा । जरन्ते ॥vi | ca | it | ucchanti | aśvinau | uṣasaḥ | pra | vām | brahmāṇi | kāravaḥ | bharante | ūrdhvam | bhānum | savitā | devaḥ | aśret | bṛhat | agnayaḥ | sam-idhā | jarante