Sukta 7.72
आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् । अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना ॥
आ गोम॑ता नासत्या॒ रथे॒नाश्वा॑वता पुरुश्च॒न्द्रेण॑ यातम् । अ॒भि वां॒ विश्वा॑ नि॒युत॑: सचन्ते स्पा॒र्हया॑ श्रि॒या त॒न्वा॑ शुभा॒ना ॥
ā́ gómātā nāsatyā ráthenā́śvāvātā puruścandréṇa yātam | abhí vāṃ víśvā níyutaḥ sacante spā́rhayā śríyā tanvā́ śubhānā́ ||
Come, O Nāsatyas, in the chariot rich in luminous herds and strong steeds, bright with many splendors. All your harnessed powers gather around you; radiant in your very body with a desirable beauty, you arrive.
आ । गोऽम॑ता । ना॒स॒त्या॒ । रथे॑न । अश्व॑ऽवता । पु॒रु॒ऽच॒न्द्रेण॑ । या॒त॒म् । अ॒भि । वा॒म् । विश्वाः॑ । नि॒ऽयुतः॑ । स॒च॒न्ते॒ । स्पा॒र्हया॑ । श्रि॒या । त॒न्वा॑ । शु॒भा॒ना ॥आ । गोमता । नासत्या । रथेन । अश्ववता । पुरुचन्द्रेण । यातम् । अभि । वाम् । विश्वाः । नियुतः । सचन्ते । स्पार्हया । श्रिया । तन्वा । शुभाना ॥ā | go--matā | nāsatyā | rathena | aśva-vatā | puru-candreṇa | yātam | abhi | vām | viśvāḥ | ni-yutaḥ | sacante | spārhayā | śriyā | tanvā | śubhānā