Sukta 7.7
असादि वृतो वह्निराजगन्वानग्निर्ब्रह्मा नृषदने विधर्ता । द्यौश्च यं पृथिवी वावृधाते आ यं होता यजति विश्ववारम् ॥
असा॑दि वृ॒तो वह्नि॑राजग॒न्वान॒ग्निर्ब्र॒ह्मा नृ॒षद॑ने विध॒र्ता । द्यौश्च॒ यं पृ॑थि॒वी वा॑वृ॒धाते॒ आ यं होता॒ यज॑ति वि॒श्ववा॑रम् ॥
asā́di vṛtó váhnir ā́jaganvān agnír brahmā́ nṛṣádane vidhartā́ | dyáuś ca yáṁ pṛthivī́ vāvṛdhā́te ā́ yáṁ hotā́ yájati viśvávāram ||
Seated, chosen, the carrier-flame has come—Agni the brahman, the upholder in the seat of men. Him Heaven and Earth increase; him the priest offers to—Agni, rich in all boons.
असा॑दि । वृ॒तः । वह्निः॑ । आ॒ऽज॒ग॒न्वान् । अ॒ग्निः । ब्र॒ह्मा । नृ॒ऽसद॑ने । वि॒ऽध॒र्ता । द्यौः । च॒ । यम् । पृ॒थि॒वी । व॒वृ॒धाते॒ इति॑ । आ । यम् । होता॑ । यज॑ति । वि॒श्वऽवा॑रम् ॥असादि । वृतः । वह्निः । आजगन्वान् । अग्निः । ब्रह्मा । नृसदने । विधर्ता । द्यौः । च । यम् । पृथिवी । ववृधाते इति । आ । यम् । होता । यजति । विश्ववारम् ॥asādi | vṛtaḥ | vahniḥ | ājaganvān | agniḥ | brahmā | nṛ-sadane | vi-dhartā | dyauḥ | ca | yam | pṛthivī | vavṛdhāteiti | ā | yam | hotā | yajati | viśva-vāram