Sukta 7.7
सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम् । विशामधायि विश्पतिर्दुरोणेऽग्निर्मन्द्रो मधुवचा ऋतावा ॥
स॒द्यो अ॑ध्व॒रे र॑थि॒रं ज॑नन्त॒ मानु॑षासो॒ विचे॑तसो॒ य ए॑षाम् । वि॒शाम॑धायि वि॒श्पति॑र्दुरो॒णे॒३॒॑ऽग्निर्म॒न्द्रो मधु॑वचा ऋ॒तावा॑ ॥
sadyó adhvaré rathiráṁ jananta mā́nuṣāso vi-cétaso yá eṣām | viśā́m adhāyi viśpátir duroṇé'gnír mandró mádhuvacā ṛtā́vā ||
At once in the sacrifice the discerning mortals give birth to the swift-car of the journey. Agni is set within the dwelling as lord of the peoples—joyful, honey-worded, a keeper of the Ṛta.
स॒द्यः । अ॒ध्व॒रे । र॒थि॒रम् । ज॒न॒न्त॒ । मानु॑षासः । विऽचे॑तसः । यः । ए॒षा॒म् । वि॒शाम् । अ॒धा॒यि॒ । वि॒श्पतिः॑ । दु॒रो॒णे । अ॒ग्निः । म॒न्द्रः । मधु॑ऽवचाः । ऋ॒तऽवा॑ ॥सद्यः । अध्वरे । रथिरम् । जनन्त । मानुषासः । विचेतसः । यः । एषाम् । विशाम् । अधायि । विश्पतिः । दुरोणे । अग्निः । मन्द्रः । मधुवचाः । ऋतवा ॥sadyaḥ | adhvare | rathiram | jananta | mānuṣāsaḥ | vi-cetasaḥ | yaḥ | eṣām | viśām | adhāyi | viśpatiḥ | duroṇe | agniḥ | mandraḥ | madhu-vacāḥ | ṛta-vā