Sukta 7.7
प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निरीळितो न होता । आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः ॥
प्रा॒चीनो॑ य॒ज्ञः सुधि॑तं॒ हि ब॒र्हिः प्री॑णी॒ते अ॒ग्निरी॑ळि॒तो न होता॑ । आ मा॒तरा॑ वि॒श्ववा॑रे हुवा॒नो यतो॑ यविष्ठ जज्ञि॒षे सु॒शेव॑: ॥
prācī́nó yajñáḥ sudhítaṁ hí barhíḥ prīṇī́te agnír īḷitó ná hotā́ | ā́ mā́tarā viśvávāre huvānó yáto yaviṣṭha jajñiṣé suśévaḥ ||
The sacrifice turns eastward; the grass-seat is well arranged. Agni, praised, rejoices as the priest. Calling the two Mothers, rich in all boons, thou art born, O youngest, from whom thou comest—benign in thy coming.
प्रा॒चीनः॑ । य॒ज्ञः । सुऽधि॑तम् । हि । ब॒र्हिः । प्री॒णी॒ते । अ॒ग्निः । ई॒ळि॒तः । न । होता॑ । आ । मा॒तरा॑ । वि॒श्ववा॑रे॒ इति॑ वि॒श्वऽवा॑रे । हु॒वा॒नः । यतः॑ । य॒वि॒ष्ठ॒ । ज॒ज्ञि॒षे । सु॒ऽशेवः॑ ॥प्राचीनः । यज्ञः । सुधितम् । हि । बर्हिः । प्रीणीते । अग्निः । ईळितः । न । होता । आ । मातरा । विश्ववारे इति विश्ववारे । हुवानः । यतः । यविष्ठ । जज्ञिषे । सुशेवः ॥prācīnaḥ | yajñaḥ | su-dhitam | hi | barhiḥ | prīṇīte | agniḥ | īḷitaḥ | na | hotā | ā | mātarā | viśvavāreitiviśva-vāre | huvānaḥ | yataḥ | yaviṣṭha | jajñiṣe | su-śevaḥ