Sukta 7.7
आ याह्यग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः । आ सानु शुष्मैर्नदयन्पृथिव्या जम्भेभिर्विश्वमुशधग्वनानि ॥
आ या॑ह्यग्ने प॒थ्या॒३॒॑ अनु॒ स्वा म॒न्द्रो दे॒वानां॑ स॒ख्यं जु॑षा॒णः । आ सानु॒ शुष्मै॑र्न॒दय॑न्पृथि॒व्या जम्भे॑भि॒र्विश्व॑मु॒शध॒ग्वना॑नि ॥
ā́ yāhy agne pathyā́ ánu svā́ mandró devā́nāṁ sakhyáṁ juṣāṇáḥ | ā́ sā́nu śúṣmair nadáyan pṛthivyā́ jambhébhir víśvam uśádhag vánāni ||
Come, O Agni, along thy own path-ways, rejoicing in the friendship of the gods. Come upon the ridges, roaring with thy strengths; with thy jaws consume all the growths of the forest that resist the flame—so the way is cleared.
आ । या॒हि॒ । अ॒ग्ने॒ । प॒थ्याः॑ । अनु॑ । स्वाः । म॒न्द्रः । दे॒वाना॑म् । स॒ख्यम् । जु॒षा॒णः । आ । सानु॑ । शुष्मैः॑ । न॒दय॑न् । पृ॒थि॒व्याः । जम्भे॑भिः । विश्व॑म् । उ॒शध॑क् । वना॑नि ॥आ । याहि । अग्ने । पथ्याः । अनु । स्वाः । मन्द्रः । देवानाम् । सख्यम् । जुषाणः । आ । सानु । शुष्मैः । नदयन् । पृथिव्याः । जम्भेभिः । विश्वम् । उशधक् । वनानि ॥ā | yāhi | agne | pathyāḥ | anu | svāḥ | mandraḥ | devānām | sakhyam | juṣāṇaḥ | ā | sānu | śuṣmaiḥ | nadayan | pṛthivyāḥ | jambhebhiḥ | viśvam | uśadhak | vanāni