Sukta 7.7
प्र वो देवं चित्सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः । भवा नो दूतो अध्वरस्य विद्वान्त्मना देवेषु विविदे मितद्रुः ॥
प्र वो॑ दे॒वं चि॑त्सहसा॒नम॒ग्निमश्वं॒ न वा॒जिनं॑ हिषे॒ नमो॑भिः । भवा॑ नो दू॒तो अ॑ध्व॒रस्य॑ वि॒द्वान्त्मना॑ दे॒वेषु॑ विविदे मि॒तद्रु॑: ॥
prá vó deváṁ cit sahasā́nam agním áśvaṁ ná vā́jinaṁ híṣe námobhiḥ | bhávā no dūtó adhvarásya vidvā́n tmanā́ devéṣu vivide mitá-druḥ ||
Forth to you I press the divine Agni, mighty in force, like a steed of plenitude, with acts of reverence. Become for us the messenger of the sacrifice—knowing the paths; by thy own being thou findest thy place among the gods, measured in thy stride.
प्र । वः॒ । दे॒वम् । चि॒त् । स॒ह॒सा॒नम् । अ॒ग्निम् । अश्व॑म् । न । वा॒जिन॑म् । हि॒षे॒ । नमः॑ऽभिः । भव॑ । नः॒ । दू॒तः । अ॒ध्व॒रस्य॑ । वि॒द्वान् । त्मना॑ । दे॒वेषु॑ । वि॒वि॒दे॒ । मि॒तऽदुः॑ ॥प्र । वः । देवम् । चित् । सहसानम् । अग्निम् । अश्वम् । न । वाजिनम् । हिषे । नमःभिः । भव । नः । दूतः । अध्वरस्य । विद्वान् । त्मना । देवेषु । विविदे । मितदुः ॥pra | vaḥ | devam | cit | sahasānam | agnim | aśvam | na | vājinam | hiṣe | namaḥ-bhiḥ | bhava | naḥ | dūtaḥ | adhvarasya | vidvān | tmanā | deveṣu | vivide | mita-duḥ