Sukta 7.66
सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः । ये नो अंहोऽतिपिप्रति ॥
सु॒प्रा॒वीर॑स्तु॒ स क्षय॒: प्र नु याम॑न्त्सुदानवः । ये नो॒ अंहो॑ऽति॒पिप्र॑ति ॥
suprāvī́ras tu sá kṣayáḥ prá nú yā́mant sudā́navaḥ | yé no áṃho ’ti-píprati ||
May that dwelling-state of ours be rich in heroic energies; forward, indeed, may the good givers lead us on—those who carry us beyond the constriction and wrong that presses upon us.
सु॒प्र॒ऽअ॒वीः । अ॒स्तु॒ । सः । क्षयः॑ । प्र । नु । याम॑न् । सु॒ऽदा॒न॒वः॒ । ये । नः॒ । अंहः॑ । अ॒ति॒ऽपिप्र॑ति ॥सुप्रअवीः । अस्तु । सः । क्षयः । प्र । नु । यामन् । सुदानवः । ये । नः । अंहः । अतिपिप्रति ॥supra-avīḥ | astu | saḥ | kṣayaḥ | pra | nu | yāman | su-dānavaḥ | ye | naḥ | aṃhaḥ | ati-piprati