Sukta 7.66
प्र मित्रयोर्वरुणयोः स्तोमो न एतु शूष्यः । नमस्वान्तुविजातयोः ॥
प्र मि॒त्रयो॒र्वरु॑णयो॒: स्तोमो॑ न एतु शू॒ष्य॑: । नम॑स्वान्तुविजा॒तयो॑: ॥
prá mitráyor váruṇayoḥ stómó na etu śūṣyàḥ | námasvān tuvijātáyoḥ ||
Let our hymn go forth to Mitra and to Varuṇa, vigorous with force; bearing reverence, to the two wide-born powers.
प्र । मि॒त्रयोः॑ । वरु॑णयोः । स्तोमः॑ । नः॒ । ए॒तु॒ । शू॒ष्यः॑ । नम॑स्वान् । तु॒वि॒ऽजा॒तयोः॑ ॥प्र । मित्रयोः । वरुणयोः । स्तोमः । नः । एतु । शूष्यः । नमस्वान् । तुविजातयोः ॥pra | mitrayoḥ | varuṇayoḥ | stomaḥ | naḥ | etu | śūṣyaḥ | namasvān | tuvi-jātayoḥ