Sukta 7.63
यत्रा चक्रुरमृता गातुमस्मै श्येनो न दीयन्नन्वेति पाथः । प्रति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः ॥
यत्रा॑ च॒क्रुर॒मृता॑ गा॒तुम॑स्मै श्ये॒नो न दीय॒न्नन्वे॑ति॒ पाथ॑: । प्रति॑ वां॒ सूर॒ उदि॑ते विधेम॒ नमो॑भिर्मित्रावरुणो॒त ह॒व्यैः ॥
yátrā cakrúr amṛ́tā gātúm asmai śyénो ná dī́yan ánv eti pā́thaḥ | práti vāṃ sūra údite vidhema námo-bhir mitrāvaruṇota havyáiḥ ||
Where the Immortals have made for him the path to go, there he follows it like a soaring falcon in swift flight. At the Sun’s uprising we would do our service to you, O Mitra and Varuṇa, with acts of reverence and with the offering: establish in us the straight passage of the Light.
यत्र॑ । च॒क्रुः । अ॒मृताः॑ । गा॒तुम् । अ॒स्मै॒ । श्ये॒नः । न । दीय॑न् । अनु॑ । ए॒ति॒ । पाथः॑ । प्रति॑ । वा॒म् । सूरे॑ । उत्ऽइ॑ते । वि॒धे॒म॒ । नमः॑ऽभिः । मि॒त्रा॒व॒रु॒णा॒ । उ॒त । ह॒व्यैः ॥यत्र । चक्रुः । अमृताः । गातुम् । अस्मै । श्येनः । न । दीयन् । अनु । एति । पाथः । प्रति । वाम् । सूरे । उत्इते । विधेम । नमःभिः । मित्रावरुणा । उत । हव्यैः ॥yatra | cakruḥ | amṛtāḥ | gātum | asmai | śyenaḥ | na | dīyan | anu | eti | pāthaḥ | prati | vām | sūre | ut-ite | vidhema | namaḥ-bhiḥ | mitrāvaruṇā | uta | havyaiḥ