Sukta 7.63
दिवो रुक्म उरुचक्षा उदेति दूरेअर्थस्तरणिर्भ्राजमानः । नूनं जनाः सूर्येण प्रसूता अयन्नर्थानि कृणवन्नपांसि ॥
दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे॑ति दू॒रेअ॑र्थस्त॒रणि॒र्भ्राज॑मानः । नू॒नं जना॒: सूर्ये॑ण॒ प्रसू॑ता॒ अय॒न्नर्था॑नि कृ॒णव॒न्नपां॑सि ॥
divó rukmá urucákṣā úd eti dūréarthas taraṇír bhrā́jamānaḥ | nūnáṃ jánāḥ sū́ryeṇa prasū́tā áyann árthāni kṛṇávann apā́ṃsi ||
The golden splendour of heaven, wide in vision, rises—far-reaching in purpose, a radiant overcomer. Now indeed men, impelled by the Sun, go forth to their aims and accomplish their works: the light releases effective action.
दि॒वः । रु॒क्मः । उ॒रु॒ऽचक्षाः॑ । उत् । ए॒ति॒ । दू॒रेऽअ॑र्थः । त॒रणिः॑ । भ्राज॑मानः । नू॒नम् । जनाः॑ । सूर्ये॑ण । प्रऽसू॑ताः । अय॑न् । अर्था॑नि । कृ॒णव॑न् । अपां॑सि ॥दिवः । रुक्मः । उरुचक्षाः । उत् । एति । दूरेअर्थः । तरणिः । भ्राजमानः । नूनम् । जनाः । सूर्येण । प्रसूताः । अयन् । अर्थानि । कृणवन् । अपांसि ॥divaḥ | rukmaḥ | uru-cakṣāḥ | ut | eti | dūre--arthaḥ | taraṇiḥ | bhrājamānaḥ | nūnam | janāḥ | sūryeṇa | pra-sūtāḥ | ayan | arthāni | kṛṇavan | apāṃsi